सन्तानगोपालः - नीलवर्णः
पिबन्तं च स्तनं मातुः मुखं संवीक्ष्य सुस्मितम् ।
अङ्गुल्यग्रे स्तनं चान्यं स्पृशन्तं च मुहुर्मुहुः ॥

यशोदाङ्गस्थितं गोपं ध्यायेत्पुत्रप्रदं सदा ॥

(मूलमन्त्रेण प्राणानायम्य - श्रीसन्तानगोपालकृष्णप्रीत्यर्थे
श्रीसन्तानगोपालमन्त्रजपं करिष्ये - इति सङ्कल्प्य -)
ॐ पूर्णज्ञानात्मने हृदयाय नमः ।
ॐ पूर्णैश्वर्यात्मने शिरसे स्वाहा ।
ॐ पूर्णपरमात्मने शिखायै वषट् ।
ॐ पूर्णानन्दात्मने कवचाय हुं ।
ॐ पूर्णतेजात्मने नेत्राभ्यां वौषट् ।
ॐ पूर्णशक्त्यात्मने अस्त्राय फट् ।
इति दिग्बन्धः -
अस्य श्रीद्वात्रिंशदक्षर सन्तानगोपालकृष्णमहामन्त्रस्य -
(शिरसि) - नारद ऋषिः
(मुखे) - अनुष्टुप् छन्दः
(हृदये) - श्रीसन्तानगोपालकृष्णो देवता -
कं बीजं - स्वाहा शक्तिः - श्रीसन्तानगोपालकृष्णप्रीत्यर्थे जपे विनियोगः ।
ध्यानम्
शङ्खचक्रधरं कृष्णं रथस्थं च चतुर्भुजम् ।
सर्वाभरणसंयुक्तं पीतवाससमच्युतम् ॥

द्विजवर्यार्जुनयुतं विष्णुतेजोपबृम्हितम् ।
समर्पयन्तं विप्राय नष्टानानीय बालकान् ॥

करुणामृतसम्पूर्णदृष्ट्यैक्षन्तं च तं द्विजम् ।
ध्यात्वा जपार्चनादीनि कुर्याद्भक्तिपरायणः ।
पुत्रार्थी स्वस्तिके न्यस्य तत्रस्थं कृष्णं पूजयेत् ॥

मूलमन्त्रः -
देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥

॥ एकलक्षं जपेन्मन्त्रं सिद्धिर्भवति तत्क्षणात् ॥

दशांशतर्पणं, तद्दशांशहोमः, पायसेन तद्दशांशं
ब्राह्मणभोजनं, पुनरुपहारार्थं प्राणायामः, षडङ्गन्यासः,
ऋष्यादि न्यासः, ध्यानञ्च कुर्यात् ।

इति श्रीसन्तानगोपालकृष्णमन्त्रं सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Open chat
सहायता
Scan the code
KARMASU.IN
नमो नमः मित्र
हम आपकी किस प्रकार सहायता कर सकते है