॥ प्रथमः सर्गः॥ ॥ राम हृदयम्॥ यः पृथिवीभरवारणाय दिविजैः सम्प्रार्थितश्चिन्मयः सञ्जातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः । निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ॥ १॥ विश्वोद्भवस्थितिलयादिषु हेतुमेकं मायाश्रयं विगतमायमचिन्त्यमूर्तिम् । आनन्दसान्द्रममलं निजबोधरूपं सीतापतिं विदिततत्त्वमहं नमामि ॥…
रामं विश्वमयं वन्दे रामं वन्दे रघूद्वहम् । रामं विप्रवरं वन्दे रामं श्यामाग्रजं भजे ॥ यस्य वागंशुतश्च्युतं रम्यं रामायणामृतम् । शैलजासेवितं वन्दे तं शिवं सोमरूपिणम् ॥ सच्चिदानन्दसन्दोहं भक्तिभूतिविभूषणम् । पूर्णानन्दमहं वन्दे सद्गुरुं शङ्करं स्वयम् ॥ अज्ञानध्वान्तसंहर्त्री ज्ञानलोकविलासिनी । चन्द्रचूडवचश्चन्द्रचन्द्रिकेयं विराजते ॥…
श्रीगणेशाय नमः । श्रीभैरव उवाच । शृणु देवि रहस्यं मे यत्पुरा सूचितं मया । तव भक्त्या गणेशस्य वक्ष्ये नामसहस्रकम् ॥ १॥ श्रीदेव्युवाच । ॐ भगवन्गणनाथस्य उच्छिष्टस्य महात्मनः । श्रोतुं नाम सहस्रं मे हृदयं प्रोत्सुकायते ॥ २॥ श्रीभैरव उवाच । प्राङ्मुखे…
ॐ वन्दारुजनमन्दारपादपाय नमो नमः ॐ । १ ॐ चन्द्रार्धशेखरप्राणतनयाय नमो नमः ॐ । ॐ शैलराजसुतोत्सङ्गमण्डनाय नमो नमः ॐ । वन्दनाय ॐ वल्लीशवलयक्रीडाकुतुकाय नमो नमः ॐ । ॐ श्रीनीलवाणीललितारसिकाय नमो नमः ॐ । ॐ स्वानन्दभवनानन्दनिलयाय नमो नमः ॐ । ॐ चन्द्रमण्डलसन्दृष्यस्वरूपाय…