नमो गणपतये तुभ्यं ज्येष्ठ ज्येष्ठाय ते नमः ।
स्मरणाद्यस्य ते विघ्ना न तिष्ठन्ति कदाचन ॥ १॥

देवानां चापि देवस्त्वं ज्येष्ठराज इति श्रुतः ।
त्यक्त्वा त्वामिह कः कार्य-सिद्धिं जन्तुर्गमिष्यति ॥ २॥

स त्वं गणपतिः प्रीतो भव ब्रह्मादिपूजित ॥

चरणस्मरणात्तेऽपि ब्रह्माद्या यशस्विनः ॥ ३॥

परा परब्रह्मदाता सुराणां त्वं सुरो यतः ।
सन्मतिं देहि मे ब्रह्मपते ब्रह्मसमीडित ॥ ४॥

उक्तं हस्तिमुखश्रुत्या त्वं ब्रह्म परमित्यपि ।
कृतं वाहनमाखुस्ते कारणन्त्वत्र वेद नो ॥ ५॥

इयं महेश ते लीला न पस्पर्श यतो मतिः ।
त्वां न हेरम्ब कुत्रापि परतन्त्रत्वमीश ते ॥ ६॥

स त्वं कवीनां च कविर्देव आद्यो गणेश्वरः ।
अरविन्दाक्ष विद्येश प्रसन्नः प्रार्थनां श‍ृणु ॥ ७॥

त्वमेकदन्त विघ्नेश देव श‍ृण्वर्भकोक्तिवत् ।
सत्कवीनां मध्य एव नैकाण्वंश कविं कुरु ॥ ८॥

श्रीविनायक ते दृष्ट्या कोपि नूनं भवेत्कविः ।
तं त्वामुमासुतं नौमि सन्मतिप्रद कामद ॥ ९॥

ममापराधः क्षन्तव्यो नतिभिः सम्प्रसीद मे ।
न नमस्यविधिं जाने त्वं प्रसीदाद्य केवलम् ॥ १०॥

न मे श्रद्धा न मे भक्तिर्न त्वदर्चनपद्धतिः ।
ज्ञाता वदान्य ते स्मीति ब्रुवे साधनवर्जितः ॥ ११॥

कर्तुं स्तवं च तेऽनीशः प्रसीद कृपयोद्धर ।
प्रणामं कुर्वेऽतोऽनेन सदानन्द प्रसीद मे ॥ १२॥

मन्त्राद्याक्षरसहित
गणानां त्वा गणपतिꣳ हवामहे कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः श‍ृण्वन्नूतिभिस्सीद सादनम् ॥

नमो ग णपतये तुभ्यं ज्येष्ठ ज्ये ष्ठाय ते नमः ।
स्मर णा द्यस्य ते विघ्ना न ति ष्ठ न्ति कदाचन ॥ १॥

देवा नां चापि देवस्त्वं ज्येष्ठराज इति श्रुतः ।
त्यक्त्वा त्वा मिह कः कार्य-सिदिन्ध जं तुर्गमिष्यति ॥ २॥

स त्वं ग णपतिः प्रीतो भव ब्र ह्मादिपूजित ।
चर ण स्मरणात्तेऽपि ब्र ह्मा द्या यशस्विनः ॥ ३॥

परा प रब्रह्मदाता सुरा णां त्वं सुरो यतः ।
सन्म तिं देहि मे ब्रह्मपते ब्र ह्मसमीडित ॥ ४॥

उक्तं ह स्तिमुखश्रुत्या त्वं ब्र ह्म परमित्यपि ।
कृतं वा हनमाखुस्ते कार ण न्त्वत्र वेद नो ॥ ५॥

इयं म हेश ते लीला न प स्पर्श यतो मतिः ।
त्वां न हे रम्ब कुत्रापि पर त न्त्रत्वमीश ते ॥ ६॥

स त्वं क वीनां च कवि-र्देव आ द्यो गणेश्वरः ।
अर विं दाक्ष विद्येश प्रसं नः प्रार्थनां श‍ृणु ॥ ७॥

त्वमे क दन्त विघ्नेश देव श‍ृ ण्वर्भकोक्तिवत् ।
सत्क वी नां मध्य एव नैका ण्वं श कविं कुरु ॥ ८॥

श्रीवि ना यक ते दृष्ट्या कोपि नू नं भवेत्कविः ।
तं त्वा मु मासुतं नौमि सन्म ति प्रद कामद ॥ ९॥

ममा प राधः क्षन्तव्यो नति भिः सम्प्रसीद मे ।
न न म स्यविधिं जाने त्वं प्र सी दाद्य केवलम् ॥ १०॥

न मे श्र द्धा न मे भक्तिर्न त्व द र्चनपद्धतिः ।
ज्ञाता व दान्य ते स्मीति ब्रुवे सा धनवर्जितः ॥ ११॥

कर्तुं स्त वं च तेऽनीशः प्रसी द कृपयोद्धर ।
प्रणा मं कुर्वेऽतोऽनेन सदा नं द प्रसीद मे ॥ १२॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं समन्त्रकं श्रीगणपतिस्तोत्रं सम्पूर्णम् ।